श्री स्वामी शरणाष्टकम् | गुरु देव स्वामी सत्यमित्रानंद गिरी जी महाराज जी को नमन | Bharat Mata

यतीश्वरं श्रीप्रणवस्वरूपं स्वानन्दपूर्ण कृतचिद्विलासम् ।

हरेहरिद्वारपदे वसन्तं श्रीसत्यमित्रं शरणं प्रपद्ये ॥1

आदावधीताखिलवेदशास्वं संन्यासवान् योगबलेन जात:।

श्रीशङ्कराचार्यमठाधिपोऽभूत् श्रीसत्यमित्रं शरणं प्रपद्ये ॥2

आचार्यपीठं नियमातिरेकात् त्यक्तं न भीतः खलु लौकिकेना

समस्तविश्वं कृतवान् स्वपीठं श्रीसत्यमित्रं शरणं प्रपद्ये ॥3

धर्मप्रचारार्थमिदं शरीरं ज्ञानाद्धि कैवल्यपदं दिशन्तम् ।

वेदान्तसिद्धान्तपदे रमन्तं श्रीसत्यमित्रं शरणं प्रपद्ये ॥4

यो धर्मकार्यस्य परम्परायाः विभाति विश्वे खलु मानदण्डः।

अद्वैततत्त्वं परिगर्जयन्तम् श्रीसत्यमित्रं शरणं प्रपद्ये ॥5

पूर्वाफ्रिकायाञ्च तथा विदेशे समन्वयो यः कृतवान् जनेषु।

गङ्गानुतीरे निवसन् महान्तं श्रीसत्यमित्रं शरणं प्रपद्ये ॥6

शान्तं महावाक्यविचारमग्नं स्वानन्दसाम्राज्यपदे वसन्तम्।

शिष्यान् सदा ब्रह्मपदे नयन्तं श्रीसत्यमित्रं शरणं प्रपद्ये ॥7

श्रीमद्गुरोर्मङ्गलदर्शनेन शिष्यास्सदा शान्तिपदं व्रजन्ति ।

भव्याकृतिं पूर्णशिवावतारं श्रीसत्यमित्रं शरणं प्रपद्ये ॥8

ऊँकारस्थितमद्वितीयचरितं सम्पूर्णधर्मावनम्

शिष्याणां शरणं त्वलौकिकगुरुं शान्तं दयासागरम्।

साक्षात् संस्कृतिरूपमेव भगवत्कार्यार्थमत्रागतम्

श्रीमत्सद्गुरुसत्यमित्रममलं भक्क्या सदा भावये॥9

श्रीस्वामिसत्यमित्राणां कृपानुग्रहहेतुतः ।

स्तोत्रं विरच्य धन्योऽभूद् आबाजी पणशीकर : ।।10।।

एषा तु वाड्मयी पूजा, गुरोश्चरणमपङ्कजे ।

अर्पिता तेन सन्तुष्टो, भूयतां गुरुरीश्वरः ||11 ||

Explore More: Swami Satyamitrananad ji Maharaj | Bharat Mata Channel